||Sundarakanda ||

|| Sarga 66||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

सुन्दरकाण्ड.
अथ षट्षष्टितमस्सर्गः||

एवमुक्तो हनुमता रामो दशरथात्मजः|
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः||1||

स|| हनुमता एवं उक्तः रामः दशरथात्मजः स लक्ष्मणः तं मणिं हृदये कृत्वा प्ररुरोद||

Thus told by Hanuman Rama the son of Dasaratha along with Lakshmana wept taking the Chudamani to his heart.

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः|
नेत्राभ्यां अश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्||2||

स|| शोककर्शितः राघवः तं मणिश्रेष्ठं दृष्ट्वा अश्रुपूर्णाभ्यां नेत्राभ्यां सुग्रीवं इदं अब्रवीत्||

Seeing that Chudamani, overcome with sorrow Raghava with his eyes filled with tears spoke to Sugriva.

यथैव धेनुः स्रवति स्नेहात् वत्सस्य वत्सला|
तथा ममापि हृदयं मणिरत्नस्य दर्शनात्||3||

स|| यथा वत्सस्य स्नेहात् धेनुः स्रवति तथिअव मम हृदयं मणिरत्नस्य दर्शनात् ||

' Like the cow that let its milk overflow out of love for the calf, my heart also on seeing this Chudamani '.
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे|
वधूकाले यथाबद्धं अधिकं मूर्ध्नि शोभते ||4||

स||मे इदं मणिरत्नं मे वैदेह्याः श्वशुरेण दत्तं | वधूकाले यथाबद्धं मूर्ध्नि अधिकं शोभते||

' This gem of an ornament was given by my father in law to Sita. It is more charming than when it was tied to the head at the time of marriage '.

अयं हि जलसंभूतो मणि सज्जनपूजितः|
यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता||5||

स|| अयं जलसम्भूतः मणिः सज्जनपूजितः यज्ञे परमतुष्ठेन धीमता शक्रेण दत्तः||

'This was found in water, worshipped by elders, given in the sacrifice out of great joy by wise Indra'.

इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम्|
अद्याsस्म्यवगतः सौम्य वैदेहस्य तथा विभोः||6||

स|| सौम्य आद्य इमं मणिश्रेष्ठं दृष्ट्वा यथा तातस्य दर्शनम् तथा विभोः वैदेह्याः च अवगतः ||

'Today seeing this best of gems I have the darshan of my father as also the king of Videha'.

अयं हि शोभते तस्याः प्रियया मूर्ध्नि मे मणिः|
अस्याद्य दर्शने नाहं प्राप्तां तां इव चिंतये||7||

स|| अयं मणिः तस्याः प्रियायाः मूर्ध्नि हि शोभते || अस्य आद्य दर्शनेन अहं तां प्राप्तां इव चिंतये ||

' This gem indeed shone on the head of my beloved. Today seeing this I am feeling as though I am seeing her'.

किमहा सीता वैदेही ब्रूहि सौम्य पुनः पुनः|
पिपासुमिव तोयेन सिंचंती वाक्यवारिणा||8||

स|| सौम्य ! पिपासुम् त्फ्येन इव वैदेहि वाक्यवारिणा सिंचन्ती | सीता किं आह पुनः पुनः ब्रूहि ||

' O Hanuman! Like water for a thirsty person, sprinkle the life giving words of Vaidehi. What did Sita say. Tell me again and again '.

इतस्तु किं दुःखतरं यदिमं वारिसंभवम्|
मणिं पश्यामि सौमित्रे वैदेही मागतं विना||9||

स|| सौमित्रे वैदेहीं आगतं विना यत् इमं वारिसंभवम् मणिं पश्यामि इतस्तु दुःखतरं किम् ||

'Oh Saumitri ! I am seeing this jewel formed out of water, without her being here. What can be more sorrowful '.

चिरं जीवति वैदेही यदि मासं धरिष्यति|
क्षणं सौम्य न जीवेयं विना ता मसितेक्षणा||10||

स|| सौम्य यदि मासं धरिष्यति वैदेही चिरं जीवति |असितेक्षणा विना क्षणं न जिवेयं||

' Oh Hanuman If Vaidehi can live for a month , she will live long. Without the black eyed one ! I cannot even live for a moment'.

नय मामपि तं देशं यत्र दृष्टा ममप्रिया|
न तिष्ठेयं क्षणमपि प्रवृत्ति मुपलभ्य च||11||

स||यत्र ममप्रिया दृष्टा तं देशं माम् अपि नय | प्रवृत्तिं उपलभ्य क्षणं अपि न तिष्ठेयं ||

' Take me to that place where my beloved is seen. Knowing where she is we cannot sit for even a moment'.

कथं सा मम सुश्रोणी भीरु भीरुस्सती सदा|
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्||12||

स|| सा सुश्रोणी भीरुभीरुः सती भयावहानां घोराणां रक्षसां कथं मध्ये तिष्ठति ... ||

'That very timid lady with fair hips, how can she stay in the middle of the fearsome and dreadful Rakshasis '.

शारदः तिमिरोन्मुक्तो नूनं चंद्र इवांबुदैः|
आवृतं वदनं तस्या न विराजति राक्षसैः||13||

' Her face like the moon covered by the rain clouds is surely bereft of brightness being surrounded by the Rakshasas'.

किमाहा सीता हनुमंस्तत्त्वतः कथ याद्य मे|
एतेन खलु जीविष्ये भेषजे नातुरो यथा||14||
स|| हनुमान् मे अद्य सीता किम् आह तत्त्वतः कथय | एतेन जीविष्ये खलु यथा भेषजेन ||

' Hanuman ! Today tell me what is said by Sita. Truly I am eager . With that like a medicine, I will live'.

मधुरा मधुरालापा कि माह मम भामिनी|
मद्विहीना वरारोहा हनुमन् कथयस्व मे||15||

स|| मथुरा मथुरालापा वरारोहा मत् विहीना ममभामिनी किं आह | कथयस्व|

' My beloved , the lovely one who speaks sweetly who has fair hips, separated from me, what did she say? Please tell me.'

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे षट्षष्टितमस्सर्गः||

Thus ends the sixty sixth chapter of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki

|| om tat sat||